.


श्रीदेव्या
    प्रात: स्मरणम् चाञ्चल्यारुणलोचनाञ्चितकृपां चन्द्रार्कचूडामणिं


चारुस्मेरमुखां चराचरजगत्संरक्षणीं सत्पदाम्।

चञ्चच्चम्पकनासिकाग्रविलसन्मुक्तामणीरञ्जितां

श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये॥1॥

कस्तूरीतिलकाञ्चितेन्दुविलसत्प्रोद्भासिभालस्थलीं

कर्पूरद्रवमिश्रचूर्णखदिरामोदोल्लसद्वीटिकाम्।

लोलापाङ्गतरङ्गितैरधिकृपासारैर्नतानन्दिनीं

श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये॥2॥
Axact

HINDU ASTHA

हमारी कोशिश आपको सही बात पहुंचाने की है .

Post A Comment: